वांछित मन्त्र चुनें

हस्ते॑नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येयमिति॒ चेदवो॑चन् । न दू॒ताय॑ प्र॒ह्ये॑ तस्थ ए॒षा तथा॑ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ॥

अंग्रेज़ी लिप्यंतरण

hastenaiva grāhya ādhir asyā brahmajāyeyam iti ced avocan | na dūtāya prahye tastha eṣā tathā rāṣṭraṁ gupitaṁ kṣatriyasya ||

पद पाठ

हस्ते॑न । ए॒व । ग्रा॒ह्यः॑ । आ॒ऽधिः । अ॒स्याः॒ । ब्र॒ह्म॒ऽजा॒या । इ॒यम् । इति॑ । च॒ । इत् । अवो॑चत् । न । दू॒ताय॑ । प्र॒ऽह्ये॑ । त॒स्थे॒ । ए॒षा । तथा॑ । रा॒ष्ट्रम् । गु॒पि॒तम् । क्ष॒त्रिय॑स्य ॥ १०.१०९.३

ऋग्वेद » मण्डल:10» सूक्त:109» मन्त्र:3 | अष्टक:8» अध्याय:6» वर्ग:7» मन्त्र:3 | मण्डल:10» अनुवाक:9» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्याः) इस वेदत्रयी का (आधिः) भलीभाँति  धारण करने योग्य या आत्मा में आधान करने योग्य ज्ञानविषय (हस्तेन-एव ग्राह्यः) साक्षात् अध्ययन से ही हस्तगत करना चाहिए (इयं ब्रह्मजाया) यह ब्रह्म परमात्मा से जायमान कन्या है या ब्रह्म-ब्राह्मण के प्रथम अवस्था में ब्रह्मचारी की जाया पत्नी है सहयोगिनी है (इति च-इत्-अवोचन्) और ऐसा ही ऋषि कहते उपदेश देते हैं (एषा दूताय प्रह्ये न तस्थे) यह वेदत्रयी प्रेरित-भेजे दूत के लिए अपने को प्रकाशित नहीं करती, जैसे कोई राजा अपने स्थान पर दूत को भेजे कि तुम मेरे लिये वेदकथा सुन आओ यज्ञ करो (तथा क्षत्रियस्य राष्ट्रं गुपितम्) ऐसा करने पर स्वयं पढ़ने पर राजा का राष्ट्र रक्षित होता है ॥३॥
भावार्थभाषाः - वेद का अध्ययन स्वयं साक्षात् करने से प्रकाशित होता है, प्रतिनिधि द्वारा नहीं। राजा का राष्ट्र भी स्वयं ज्ञानी होने से सुरक्षित होता है ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्याः-आधिः) अस्याः खलु वेदत्रय्याः-आधातव्यः समन्ताद् धारणीयं आधानकरणीयो वा ज्ञानविषयः (हस्तेन-एव ग्राह्यः) साक्षादध्ययनेनैव ग्राह्यो हस्तगतः कर्त्तव्यः (ब्रह्मजाया इयम्-इति च-इत्-अवोचन्) इयं ब्रह्मणः परमात्मनो जायमाना कन्या तस्माज्जायमानत्वाद् यद्वा ब्राह्मणस्य प्रथमवयसि ब्रह्मचारिणो जायेति ह्यृषयो वदन्ति-उपदिशन्ति (एषा दूताय प्रह्ये न तस्थे) इयं वेदत्रयी प्रेरिताय दूताय न तिष्ठति यथा कश्चिद् राजा स्वयं नाधीत्य दूतं प्रेष्यति त्वं मम स्थाने वेदश्रवणं कुरु यजस्व वा तथा कारिताय राज्ञे नात्मानं प्रकाशयति “प्रकाशन-स्थेयाख्ययोश्च” [अष्टा० १।३।२३] इत्यात्मनेपदं तथा (क्षत्रियस्य राष्ट्रं गुपितम्) तथा राज्ञो राष्ट्रं गुपितं रक्षितं भवति वेदज्ञानश्रवणेनेत्यर्थः ॥३॥